॥ श्री गणेशाय नमः ॥
श्रीनटराजस्तवः
॥ ॐ श्रीरामजयम् ॥
॥ ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ॥
॥ ॐ नटराजाय विद्महे नटानन्दाय धीमहि
तन्नः शिवः प्रचोदयात् ॥
नमः शिवाय रुद्राय उमापाय नमो नमः ।
आनन्दताण्डवानन्दनटराजाय ते नमः ॥ १ ॥
चिदम्बरप्रनृत्यकं चिदात्मबोधनर्तनम् ।
नदत्पदस्थझङ्कृतं सदात्मलीनताण्डवम् ॥ २ ॥
सुताललास्यलासकं सुवक्त्रगारसस्वरम् ।
सुकाव्यलासरासकं सभव्यनृत्यताण्डवम् ॥ ३ ॥
सुनादनन्दताण्डवं चिदग्निमण्डलावृतम् ।
प्रकृत्यनुप्रवेशनं प्रकाशमण्डलं भवम् ॥ ४ ॥
झणत्करस्थडामरं करान्यपावकज्वलम् ।
वराभयप्रदोत्करं करस्फुरत्सुकाञ्चनम् ॥ ५ ॥
पदोत्थितं सुताण्डवं मृगारिचर्ममध्यमम् ।
सुवर्णलासवासनं नटप्रडीनवासनम् ॥ ६ ॥
गलप्रलाससर्पकं सुकर्णलासकुण्डलम् ।
स्मितोष्ठरञ्जनं मृडं सुनेत्रदीप्तिनर्तनम् ॥ ७ ॥
ललाटनेत्रशिक्षकं अलीकभस्मलेपनम् ।
जटार्धचन्द्रशोभनं जटाहिमण्डलं हरम् ॥ ८ ॥
सुमौलिगङ्गिकानटं सुगङ्गिकाहिमप्रियम् ।
हिमाम्बुवर्षगङ्गिकं नटोल्लसत्सुगङ्गिकम् ॥ ९ ॥
नमामि तं नटप्रियं नमामि चित्सभेश्वरम् ।
नमामि सृष्टिमण्डलं नमाम्युमामहेश्वरम् ॥ १० ॥
उमेश्वराय मङ्गलं नटोत्तमाय मङ्गलम् ।
सुताण्डवाय मङ्गलं चिदम्बराय मङ्गलम् ॥ ११ ॥
शिवस्य ताण्डवस्तवं गुरुप्रसादकीर्तितम् ।
विकासपुष्पवासनं भवापहं भगप्रदम् ॥ १२ ॥
शिवस्य सत्कृपालयं सुगालयं मनोलयम् ।
सदा पठेद्वरप्रदं सदा सुमङ्गलावहम् ॥ १३ ॥
मङ्गलं चित्सभेशाय शक्तिनाथाय मङ्गलम् ।
मङ्गलं नटराजाय त्यागराजाय मङ्गलम् ॥ १४ ॥
त्यागराजगुरुस्वामिशिष्यापुष्पाप्रकीर्तितम् ।
नटराजस्तवस्तोत्रं नटराजकृपावहम् ॥ १५ ॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया
पुष्पया कृतः श्रीनटराजस्तवः गुरौ समर्पितः ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥