॥ श्री गणेशाय नमः ॥
श्रीमहालिङ्गस्तुतिः
अनादिमलसंसार रोगवैद्याय शम्भवे ।
नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १ ॥
आदिमध्यान्तहीनाय स्वभावानलदीप्तये ।
नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ २ ॥
प्रलयार्णवसंस्थाय प्रलयोत्पत्तिहेतवे ।
नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ३ ॥
ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे ।
नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ४ ॥
महादेवाय महते ज्योतिषेऽनन्ततेजसे ।
नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५ ॥
प्रधानपुरुषेशाय व्योमरूपाय वेधसे ।
नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६ ॥
निर्विकाराय नित्याय सत्यायामलतेजसे ।
नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ७ ॥
वेदान्तसाररूपाय कालरूपाय धीमते ।
नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८ ॥
इति श्रीकूर्मपुराणान्तर्गतं श्रीमहालिङ्गस्तुतिः समाप्ता ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥