॥ श्री गणेशाय नमः ॥
श्रीमातङ्गीस्तोत्रम्
नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् ।
सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १ ॥
रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् ।
गुंजाहारस्तनाढ्यान्तां परंज्योतिस्वरूपिणीम् ॥ २ ॥
मारणं मोहनं वश्यं स्तम्भनाकर्ष दायिनी ।
मुण्ड कर्त्रिं शरावामां परंज्योतिस्वरूपिणीम् ॥ ३ ॥
स्वयम्भुकुसुम प्रीतां ऋतुयोनिनिवासिनीम् ।
शवस्थां स्मेरवदनां परंज्योतिस्वरूपिणीम् ॥ ४ ॥
रजस्वला भवेन्नित्यं पूजेष्टफलदायिनी ।
मद्यप्रियं रतिमयीं परंज्योतिस्वरूपिणीम् ॥ ५ ॥
शिवविष्णुविरञ्चीनां साद्यां बुद्धिप्रदायिनीम् ।
असाध्यं साधिनीं नित्यां परंज्योतिस्वरूपिणीम् ॥ ६ ॥
रात्रौ पूजा बलियुतां गोमांस रुधिरप्रियाम् ।
नानाऽलङ्कारिणीं रौद्रीं पिशाचगणसेविताम् ॥ ७ ॥
इत्यष्टकं पठेद्यस्तु ध्यानरूपां प्रसन्नधीः ।
शिवरात्रौ व्रतेरात्रौ वारूणी दिवसेऽपिवा ॥ ८ ॥
पौर्णमास्याममावस्यां शनिभौमदिने तथा ।
सततं वा पठेद्यस्तु तस्य सिद्धि पदे पदे ॥ ९ ॥
इति एकजटा कल्पलतिका
शिवदीक्षायान्तर्गतम्मातङ्गी स्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥