॥ श्री गणेशाय नमः ॥
श्रीधूमावत्युच्चाटन मन्त्रः
ध्यानम् ।
काकारूढातिकृष्णाभा भिन्नदन्ता विरागिणी ।
मुक्तकेशी सुधूम्राक्षी क्षुत्तृषार्ता भयातुरा ॥
चञ्चला चाति कामार्ता क्लिष्टा पुष्टालसाङ्गिका ।
मलिना श्रमनी रक्ता व्यक्तगर्भाविरोधिनी ।
धृतसर्पाग्रहस्ता च ध्येया धूमावतीपरा ॥
मन्त्र ।
ॐ धूं धूमावति देवदत्तो धावतीति स्वाहा ।
ऋषिः क्षपणकः गायत्री छन्दः धूमावती देवता
धूं बीजं स्वाहाशक्तिः समुच्चाटे विनियोगः
लक्षं जपेत्महेशानि जगदुच्चाटनं चरेत् ॥
इति श्रीधूमावत्युच्चाटन मन्त्रः ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥