॥ श्री गणेशाय नमः ॥
श्रीचण्डी प्रातःस्मरणम्
अथवा दुर्गा अथवा भगवती प्रातःस्मरणम्
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां
सद्रत्नवन्मकरकुण्डलहारभूषाम् ।
दिव्यायुधोर्जितसुनीलसहस्रहस्तां
रक्तोत्पलाभचरणां महतीं परेशाम् ॥ १ ॥
प्रातर्नमामि महिषासुरचण्डमुण्ड-
शुम्भासुरप्रसुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्रमुनिमोहनशीललीलां
चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥ २ ॥
प्रातर्भजामि भवतामभिलाषदात्रीं
धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारबन्धनविमोचनहेतुभूतां
मायां परां समधिगम्य परस्य विष्णोः ॥ ३ ॥
श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः ।
सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ ४ ॥
इति श्रीचण्डीप्रातःस्मरणं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥