॥ श्री गणेशाय नमः ॥
श्रीबगलापञ्जरन्यासस्तोत्रम्
बगला पूर्वतो रक्षेद्आग्नेय्यां च गदाधरी ।
पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैरृते ॥ १ ॥
जिह्वाकीलिन्यतो रक्षेत्पश्चिमे सर्वदा हि माम् ।
वायव्ये च मदोन्मत्ता कौबेर्यां च त्रिशूलिनी ॥ २ ॥
ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम ।
संरक्षेन्मां तु सततं पाताले स्तव्यमातृका ॥ ३ ॥
ऊर्ध्वं रक्षेन्महादेवी जिह्वास्तम्भनकारिणी ।
एवं दशदिशो रक्षेद्बगला सर्वसिद्धिदा ॥ ४ ॥
एवं न्यासविधिं कृत्वा यत्किञ्चिज्जपमाचरेत् ।
तस्याः संस्मरणादेव शत्रूणां स्तम्भनं भवेत् ॥ ५ ॥
इति श्रीबगलापञ्जरन्यासस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥