॥ श्री गणेशाय नमः ॥
श्रीबालामन्त्रसिद्धिस्तवः
ब्राह्मीरूपधरे देवि ब्रह्मात्मा ब्रह्मपालिका ।
विद्यामन्त्रादिकं सर्वं सिद्धिं देहि परेश्वरि ॥ १ ॥
महेश्वरी महामाया मानन्दा मोहहारिणी ।
मन्त्रसिद्धिफलं देहि महामन्त्रार्णवेश्वरि ॥ २ ॥
गुह्येश्वरी गुणातीता गुह्यतत्त्वार्थदायिनी ।
गुणत्रयात्मिका देवी मन्त्रसिद्धिं ददस्व माम् ॥ ३ ॥
नारायणी च नाकेशी नृमुण्डमालिनी परा ।
नानानना नाकुलेशी मन्त्रसिद्धिं प्रदेहि मे ॥ ४ ॥
घृष्टिचक्रा महारौद्री घनोपमविवर्णका ।
घोरघोरतरा घोरा मन्त्रसिद्धिप्रदा भव ॥ ५ ॥
शक्राणी सर्वदैत्यघ्नी सहस्रलोचनी शुभा ।
सर्वारिष्टविनिर्मुक्ता सा देवी मन्त्रसिद्धिदा ॥ ६ ॥
चामुण्डारूपदेवेशी चलज्जिह्वा भयानका ।
चतुष्पीठेश्वरी देहि मन्त्रसिद्धिं सदा मम ॥ ७ ॥
लक्ष्मीलावण्यवर्णा च रक्ता रक्तमहाप्रिया ।
लम्बकेशा रत्नभूषा मन्त्रसिद्धिं सदा दद ॥ ८ ॥
बाला वीरार्चिता विद्या विशालनयनानना ।
विभूतिदा विष्णुमाता मन्त्रसिद्धिं प्रयच्छ मे ॥ ९ ॥
फलश्रुतिः ।
मन्त्रसिद्धिस्तवं पुण्यं महामोक्षफलप्रदम् ।
महामोहहरं साक्षात्सत्यं मन्त्रस्य सिद्धिदम् ॥ १० ॥
इति महाकालसंहितायां श्रीबालामन्त्रसिद्धिस्तवः सम्पूर्णः ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥