॥ श्री गणेशाय नमः ॥
षड्गोस्वाम्यष्टकम्
कृष्णोत्कीर्तनगाननर्तनपरौ प्रेमामृताम्भोनिधी धीराधीरजनप्रियौ प्रियकरौ निर्मत्सरौ पूजितौ ।
श्रीचैतन्यकृपाभरौ भुवि भुवो भारावहन्तारकौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ १ ॥
नानाशास्त्रविचारणैकनिपुणौ सद्धर्मसंस्थापकौ लोकानां हितकारिणौ त्रिभुवने मान्यौ शरण्याकरौ ।
राधाकृष्णपदारविन्दभजनानन्देन मत्तालिकौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ २ ॥
श्रीगौराङ्गगुणानुवर्णनविधौ श्रद्धासमृद्ध्यन्वितौ पापोत्तापनिकृन्तनौ तनुभृतां गोविन्दगानामृतैः ।
आनन्दाम्बुधिवर्धनैकनिपुणौ कैवल्यनिस्तारकौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ३ ॥
त्यक्त्वा तूर्णमशेषमण्डलपतिश्रेणीं सदा तुच्छवत्भूत्वा दीनगणेशकौ करुणया कौपीनकन्थाश्रितौ ।
गोपीभावरसामृताब्धिलहरीकल्लोलमग्नौ मुहुर्वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ४ ॥
कूजत्कोकिलहंससारसगणाकीर्णे मयूराकुले नानारत्ननिबद्धमूलविटपश्रीयुक्तवृन्दावने ।
राधाकृष्णमहर्निशं प्रभजतौ जीवार्थदौ यौ मुदा वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ५ ॥
सङ्ख्यापूर्वकनामगाननतिभिः कालावसानीकृतौ निद्राहारविहारकादिविजितौ चात्यन्तदीनौ च यौ ।
राधाकृष्णगुणस्मृतेर्मधुरिमाऽऽनन्देन सम्मोहितौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ६ ॥
राधाकुण्डतटे कलिन्दतनयातीरे च वंशीवटे प्रेमोन्मादवशादशेषदशया ग्रस्तौ प्रमत्तौ सदा ।
गायन्तौ च कदा हरेर्गुणवरं भावाभिभूतौ मुदा वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ७ ॥
हे राधे व्रजदेवीके च ललिते हे नन्दसूनो कुतः श्रीगोवर्धनकल्पपादपतले कालिन्दीवने कुतः ।
घोषन्ताविति सर्वतो व्रजपुरे खेदैर्महाविह्वलौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ८ ॥
इति श्रीश्रीनिवासाचार्यविरचितं षड्गोस्वाम्यष्टकं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥