॥ श्री गणेशाय नमः ॥
नवनागनामस्तोत्रम्
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १ ॥
एतानि नवनामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ २ ॥
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ ३ ॥
इति श्रीनवनागनामस्तोत्रम्सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥