॥ श्री गणेशाय नमः ॥
नवग्रहस्तोत्रं
वादिराजयतिविरचित
भास्वान्मे भासयेत्तत्त्वं चन्द्रश्चाह्लादकृद्भवेत् ।
मङ्गलो मङ्गलं दद्यात्बुधश्च बुधतां दिशेत् ॥ १ ॥
गुरुर्मे गुरुतां दद्यात्कविश्च कवितां दिशेत् ।
शनिश्च शं प्रापयतु केतुः केतुं जयेऽर्पयेत् ॥ २ ॥
राहुर्मे रहयेद्रोगं ग्रहाः सन्तु करग्रहाः ।
नवं नवं ममैश्वर्यं दिशन्त्वेते नवग्रहाः ॥ ३ ॥
शने दिनमणेः सूनो ह्यनेकगुणसन्मणे ।
अरिष्टं हर मेऽभीष्टं कुरु मा कुरु सङ्कटम् ॥ ४ ॥
हरेरनुग्रहार्थाय शत्रुणां निग्रहाय च ।
वादिराजयतिप्रोक्तं ग्रहस्तोत्रं सदा पठेत् ॥ ५ ॥
इति श्रीवादिराजयतिविरचितं नवग्रहस्तोत्रम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥