॥ श्री गणेशाय नमः ॥
नवदुर्गास्तोत्र
देवी शैलपुत्री ।
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥ १ ॥
देवी ब्रह्मचारिणी ।
दधाना करपद्माभ्यामक्षमालाकमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥ २ ॥
देवी चन्द्रघण्टेति ।
पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥ ३ ॥
देवी कूष्मांडा ।
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥ ४ ॥
देवी स्कन्दमाता ।
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥ ५ ॥
देवी कात्यायनी ।
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥ ६ |
देवी कालरात्रि ।
एकवेणी जपाकर्णपूरा नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥ ७ ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥ ८ ॥
देवी महागौरी ।
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥ ९ ॥
देवी सिद्धिदात्रि ।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥ १० ॥
इति नवदुर्गास्तोत्र ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥