॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
७) कालरात्रि - भानुचक्र
एकवेणीजपाकर्णपुरानना खरास्थिता ।
लम्बोष्ठीकर्णिकाकर्णीतैलाभ्यङ्गशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनामूर्धजा कृष्णा कालरात्रिर्भयङ्करी ॥
ध्यानम् ।
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालरात्रिं करालीं च विद्युन्मालाविभूषिताम् ॥
दिव्यलौहवज्रखड्गवामाधोर्ध्वकराम्बुजाम् ।
अभयं वरदां चैव दक्षिणोर्ध्वाधः पाणिकाम् ॥
महामेघप्रभां श्यामां तथा च गर्दभारूढाम् ।
घोरदंष्ट्राकारालास्यां पीनोन्नतपयोधराम् ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चियन्तयेत्कालरात्रिं सर्वकामसमृद्धिदाम् ॥
स्तोत्रम् ।
ह्रीं कालरात्रिः श्रीं कराली च क्लीं कल्याणी कलावती ।
कालमाता कलिदर्पघ्नी कपदींशकृपन्विता ॥
कामबीजजपानन्दा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनाऽऽर्तिनशिनी कुलकामिनी ॥
क्लीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी ।
कृपामयी कृपाधारा कृपापारा कृपागमा ॥
कवचम् ।
ॐ क्लीं मे हृदयं पातु पादौ श्रीं कालरात्रिः ।
ललाटं सततं पातु दुष्टग्रहनिवारिणी ॥
रसनां पातु कौमारी भैरवी चक्षुषी मम ।
कटौ पृष्ठे महेशानी कर्णौ शङ्करभामिनी ।
वर्जितानि तु स्थानानि यानि च कवचेन हि ।
तानि सर्वाणि मे देवी सततं पातु स्तम्भिनी ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥