॥ श्री गणेशाय नमः ॥
मालास्तुतिः
ॐ महामाये महामाले
सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्त-
स्तस्मान्मे सिद्धिदा भव ॥ १ ॥
अविघ्नं कुरु माले त्वं
गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं
प्रसीद मम सिद्धये ॥ २ ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥