॥ श्री गणेशाय नमः ॥
कुण्डलिनी स्तोत्रम्
ॐ नमस्ते देवदेवेशि योगीशप्राणवल्लभे ।
सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १ ॥
ॐ प्रसुप्तभुजगाकारे सर्वदा कारणप्रिये ।
कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २ ॥
असारे घोरसंसारे भवरोगात्कुलेश्वरी ।
सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३ ॥
इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत्सुधीः ।
मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४ ॥
इति प्राणतोषिणी तन्त्रे कुण्डलिनी स्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥