॥ श्री गणेशाय नमः ॥
गणेशकवचं
संसारमोहनम्
श्रीविष्णुरुवाच -
संसारमोहनस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥ १ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
सर्वेषां कवचानान्ऽच सारभूतमिदं मुने ॥ २ ॥
ॐ गं हुं श्रीं गणेशाय स्वाहा मे पातु मस्तकम् ।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ३ ॥
ॐ ह्रीं क्लीं श्रीं गमिति च सन्ततं पातु लोचनम् ।
तालुकं पातु विघ्नेशः सन्ततं धरणीतले ॥ ४ ॥
ॐ ह्रीं श्रीं क्लीमिति सन्ततं पातु नासिकाम् ।
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥ ५ ॥
दन्ताणि तालुकां जिह्वां पातु मे षोडशाक्षरः ॥ ६ ॥
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदाऽवतु ।
ॐ क्लीं ह्रीं विघ्ननाशाय स्वहा कर्णं सदाऽवतु ॥ ७ ॥
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ।
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ॥ ८ ॥
ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलन्ऽच गं ।
पाणौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् ॥ ९ ॥
प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः ।
दक्षिणे पातु विघ्नेशो नैरृत्यान्तु गजाननः ॥ १० ॥
पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ।
कृष्णस्यांशश्चोत्तरे तु परिपूर्णतमस्य च ॥ ११ ॥
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्द्ध्वतः ।
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ॥ १२ ॥
स्वप्ने जागरणे चैव पातु मे योगिनां गुरुः ॥ १३ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
संसारमोहनं नाम कवचं परमाद्भुतम् ॥ १४ ॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।
वृन्दावने विनीताय मह्यं दिनकरात्मज ॥ १५ ॥
मया दत्तन्ऽच तुभ्यन्ऽच यस्मै कस्मै न दास्यसि ।
परं वरं सर्वपूज्यं सर्वसङ्कटतारणम् ॥ १६ ॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ १७ ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ १८ ॥
इदं कवचमज्न्ऽआत्वा यो भजेच्छङ्करात्मजम् ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १९ ॥
इति ब्रह्मवैवर्ते गणपतिखण्डे संसारमोहनं
नाम गणेशकवचं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥