॥ श्री गणेशाय नमः ॥
गणपतिस्तोत्रं
श्रीमच्छङ्कराचार्यविरचितम्
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् ।
चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १ ॥
किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ङ्घ्रयष्टिकम् ।
प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २ ॥
सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् ।
कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३ ॥
विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं गिरीशदर्शनेच्छया समर्पितं पराशया ।
निरन्तरं सुरासुरैः सपुत्रवामलोचनैः महामखेष्टमिष्टकर्मसु भजामि तुन्दिलम् ॥ ४ ॥
मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् ।
अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥ ५ ॥
दारिद्र्यविद्रावणमाशु कामदं स्तोत्रं पठेदेतदजस्रमादरात् ।
पुत्रीकलत्रस्वजनेषु मैत्री पुमान्मवेदेकवरप्रसादात् ॥ ६ ॥
इति श्रीमच्छङ्कराचार्यविरचितं गणपतिस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥