॥ श्री गणेशाय नमः ॥
छिन्नमस्ताध्यानम्
१) प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्रिकां
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ॥
नागाबद्धशिरोमणिं त्रिनयनां हृद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरि दृढां वन्दे जपासन्निभाम् ॥ १ ॥
२) दक्षे चातिसिता विमुक्तचिकुरा कर्त्रीं तथा खर्परम् ।
हस्ताभ्यां दधती रजोगुणभवा नाम्नापि सा वर्णिनी ॥
देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिबन्ती मुदा ।
नागाबद्धशिरोमणिर्मनुविदा ध्येया सदा सा सुरैः ॥ २ ॥
प्रत्यालीढपदा कबन्धविगलद्रक्तं पिबन्ती मुदा ।
सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी ॥
शक्तिः सापि परात्परा भगवती नाम्ना परा डाकिनी ।
ध्येया ध्यानपरैः सदा सविनयं भक्तेष्टभूतिप्रदा ॥ ३ ॥
३) भास्वन्मण्डलमध्यगां निजशिरश्छिन्नं विकीर्णालकम् ।
स्फारास्यं प्रपिबद्गलात्स्वरुधिरं वामे करे बिभ्रतीम् ॥
याभासक्तरतिस्मरोपरिगतां सख्यौ निजे डाकिनी-
वर्णिन्यौ परिदृश्य मोदकलितां श्रीछिन्नमस्तां भजे ॥ ४ ॥
४) स्वनाभौ नीरजं ध्यायाम्यर्धं विकसितं सितम् ।
तत्पद्मकोशमध्ये तु मण्डलं चण्डरोचिषः ॥ ५ ॥
जपाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् ।
रजस्सत्वतमोरेखा योनिमण्डलमण्डितम् ॥ ६ ॥
तन्मध्ये तां महादेवीं सूर्यकोटिसमप्रभाम् ।
छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥ ७ ॥
प्रसारितमुखीं देवीं लेलिहानाग्रजिह्विकाम् ।
पिबन्तीं रौधिरीं धारां निजकण्ठविनिर्गताम् ॥ ८ ॥
विकीर्णकेशपाशां च नानापुष्पसमन्विताम् ।
दक्षिणे च करे कर्त्रीं मुण्डमालाविभूषिताम् ॥ ९ ॥
दिगम्बरां महाघोरां प्रत्यालीढपदे स्थिताम् ।
अस्थिमालाधरां देवीं नागयज्ञेपवीतिनीम् ॥ १० ॥
रतिकामोपरिष्ठां च सदा ध्यातां च मन्त्रिभिः ।
सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥ ११ ॥
५) विपरीतरतासक्तौ ध्यायामि रतिमन्मथौ ।
शाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः ॥ १२ ॥
देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् ।
वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगम्बराम् ॥ १३ ॥
कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः ।
नागयज्ञेपवीताढ्यां ज्वलत्तेजोमयीमिव ॥ १४ ॥
प्रत्यालीढपदां विद्यां नानालङ्कारभूषिताम् ।
सदा द्वादशवर्षीयां अस्थिमालाविभूषिताम् ॥ १५ ॥
डाकिनीं वामपार्श्वे तु कल्पसूर्यानलोपमाम् ।
विद्युज्जटां त्रिनयनां दन्तपङ्क्तिबलाकिनीम् ॥ १६ ॥
दंष्ट्राकरालवदनां पीनोन्नतपयोधराम् ।
महादेवीं महाघोरां मुक्तकेशीं दिगम्बराम् ॥ १७ ॥
लेलिहानमहाजिह्वां मुण्डमालाविभूषिताम् ।
कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः ॥ १८ ॥
देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् ।
करस्थितकपालेन भीषणेनातिभीषणाम् ।
आभ्यां निषेव्यमाणां तां कलये जगदीश्वरीम् ॥ १९ ॥
इति छिन्नमस्ताध्यानम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥