॥ श्री गणेशाय नमः ॥
बुधस्तुतिः
ॐ नमो बुधाय विज्ञाय सोमपुत्राय ते नमः ।
रोहिणीगर्भसम्भूत कुङ्कुमच्छविभूषित ॥ १ ॥
सोमप्रियसुताऽनेकशास्त्रपारगवित्तम ।
रौहिणेय नमस्तेऽस्तु निशाकामुकसूनवे ॥ २ ॥
पीतवस्त्रपरीधान स्वर्णतेजोविराजित ।
सुवर्णमालाभरण स्वर्णदानकरप्रिय ॥ ३ ॥
नमोऽप्रतिमरूपाय रूपानां प्रियकारिणे ।
विष्णुभक्तिमते तुभ्यं चेन्दुराजप्रियङ्कर ॥ ४ ॥
सिंहासनस्थो वरदः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सौम्यो वोऽस्तु सुखप्रदः ॥ ५ ॥
स्थिरासनो महाकायः सर्वकर्मावबोधकः ।
विष्णुप्रियो विश्वरूपो महारूपो महेश्वरः ॥ ६ ॥
बुधाय विष्णुभक्ताय महारूपधराय च ।
सोमात्मजस्वरूपाय पीतवस्त्रप्रियाय च ॥ ७ ॥
अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ।
सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ॥ ८ ॥
सत्यवादी खड्गहस्तो ग्रहपीडानिवारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ९ ॥
एतानि बुधनामानि प्रातरुत्थाय यः पठेत् ।
न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ॥ १० ॥
इत्येतत्स्तोत्रमुत्थाय प्रभाते पठते नरः ।
न तस्य पीडा बाधन्ते बुद्धिभाक्च भवेत्सुधीः ॥ ११ ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
बुधो बुद्धिप्रदाता च सोमपुत्रो महाद्युतिः ।
आदित्यस्य रथे तिष्ठन्स बुधः प्रीयतां मम ॥ १२ ॥
इति बुधस्तुतिः समाप्ता ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥